|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.234. अध्यायः 234
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति दानस्य षाङ्गुण्यप्तिपादनपूर्वकं तत्फलकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
महेश्वर उवाच।
एतदर्थमवाप्नोति नरः प्रेत्य शुभेक्षणे॥ उमोवाच। 13-234-1(90637)
लोकसिद्धं तु यद्द्रव्यं सर्वसाधारणं भवेत्।
तददत्सर्विसामान्यं कथं धर्मं लभेन्नरः।
एवं साधारणे द्रव्ये तस्य स्वत्वं कथं भवेत्॥ महेश्वर उवाच। 13-234-2(90638)
लोके भूतमयं द्रव्यं सर्वसाधारणं तथा।
तथैव तद्ददन्मर्त्यो लभेत्पुण्यं स तच्छृणु॥ 13-234-3(90639)
दाता प्रतिग्रहीता च देयं सोपक्रमं तथा।
देशकालौ च यत्त्वेतद्दानं षङ्गुणमुच्यते।
तेषां सम्पद्विशेषांश्च कीर्त्यमानान्निबोध मे॥ 13-234-4(90640)
आदिप्रभृति यः शुद्धो मनोवाक्कायकर्मभिः। सत्यवादी जितक्रोधस्त्वलुब्धो नाभ्यसूयकः। श्रुद्धावानास्तिकश्चैवक एवं दाता प्रशस्यते॥ 13-234-5(90641)
शुद्रो दान्तो जितक्रोधस्तथा दीनकुलोद्भवः।
श्रुतचारित्रसम्पन्नस्तथा बहुकलत्रवान्॥ 13-234-6(90642)
पञ्चयज्ञपरो नित्यं निर्विकारशरीरवान्।
एतान्पात्रगुणान्विद्धि तादृक्पात्रं प्रशस्यते॥ 13-234-7(90643)
पितृदेवाग्निकार्येषु तस्य दत्तं महाफलम्।
यद्यदर्हति यो लोके पात्रं तस्य भवेच्च सः। मुच्येदापद आपन्नो येन पात्रं तदस्य तु॥ 13-234-8(90644)
अन्नस्य क्षुधितं पात्रं तृषितस्तु जलस्य वै।
एवं पात्रेषु नानात्वमिष्यते पुरुषं प्रति॥ 13-234-9(90645)
जारश्चोरश्च षण्डश्च हिंस्रः समयभेदकः।
लोकविघ्नकराश्चान्ये वर्जितव्याः सर्वशः प्रिये॥ 13-234-10(90646)
परोपघाताद्यद्द्रव्यं चौर्याद्वा लभ्यते नृभिः।
निर्दयाल्लभ्यते यच्च धूर्तभावेन वै तथा॥ 13-234-11(90647)
अधर्मादर्थमोहाद्वा बहूनामुपरोधनात्।
यल्लभ्यते धनं देवि तदत्यन्तविगर्हितम्॥ 13-234-12(90648)
तादृशेन कृतं धर्मं निष्फलं विद्धि भामिनि।
तस्मान्न्यायागतेनैव दातव्यं शुभमिच्छता॥ 13-234-13(90649)
यद्यदात्मप्रियं नित्यं तत्तद्देयमिति स्थितिः।
उपक्रममिमं विद्धि दातॄणां परमं हितम्॥ 13-234-14(90650)
पात्रभूतं तु दूरस्थमभिगम्य प्रसाद्य च।
दाता दानं तथा दद्याद्यथा तुष्येत तेन सः। एष दानविधइः श्रेष्ठः समाहूय तु मध्यमः॥ 13-234-15(90651)
पूर्वं च पात्रतां ज्ञात्वा समाहूय निवेद्य च।
शौचाचमनसंयुक्तं दातव्यं श्रद्धया प्रिये॥ 13-234-16(90652)
याचितॄणां तु परममाभिमुख्यं पुरस्कृतम्।
संमानपूर्वं सङ्ग्राह्यं दातव्यं देशकालयो॥ 13-234-17(90653)
अपात्रेभ्योपि चान्येभ्यो दातव्यं भूतिमिच्छता॥
पात्राणि सम्परीक्ष्यैव दात्रा वै नाममात्रया। 13-234-18(90654)
अतिशक्तया परं दानं यथाशक्ति तु मध्यमम्।
तृतीयं चापरं दानं नानुरूपमिवात्मनः॥ 13-234-19(90655)
यथा सम्भाषितं पूर्वं दातव्यं तत्तथैव च।
पुण्यिक्षेत्रेषु यद्दत्तं पुण्यकालेषु वा यथा। तच्छोभनतरं विद्धि गौरवाद्देशकालयोः॥ उमोवाच। 13-234-20(90656)
यश्च पुण्यतमो देशस्तथा कालश्च शंस मे॥ महेश्वर उवाच। 13-234-21(90657)
कुरुक्षेत्रं महानन्यो यश्च देवर्षिसेवितः।
गिरिर्वरश्च तीर्थानि देशभागेषु पूजितः।
ग्रहीतुमीप्सितो यत्र तत्र दत्तं महाफमल्॥ 13-234-22(90658)
शरद्वसन्तकालश्च पुण्यमासस्तथैव च।
शुक्लपक्षश्च पक्षाणां पौर्णमासी च पर्वसु॥ 13-234-23(90659)
पितृदैवतनक्षत्रनिर्मलो दिवसस्तथा।
तच्छोभनतरं विद्धि चन्द्रसूर्यग्रहे तथा॥ 13-234-24(90660)
प्रतिग्रहीतुर्यः कालो मनसा कीर्तितः शुभे।
एवमादिष्टकालेषु दत्तं दानं महद्भवेत्॥ 13-234-25(90661)
दाता देयं च पात्रं च उपक्रमयुता क्रिया।
देशकालं तथा तेषां सम्पच्छुद्धिः प्रकीर्तिता॥ 13-234-26(90662)
यथैव युगपत्सम्पत्तत्र दानं महद्भवेत्॥ 13-234-27(90663)
अत्यल्पमपि यद्दानमेभिः षड्भिर्गुणैर्युतम्।
भूत्वाऽनन्तं नयेत्स्वर्गं दातारं दोषवर्जितम्॥ 13-234-28(90664)
सुमहद्वाऽपि यद्दानं गुणैरेभिर्विनाकृतम्।
अत्यल्पफलनिर्योगमफलं वा फलोद्धतम्॥ उमोवाच। 13-234-29(90665)
एवंगुणयुतं दानं दत्तं च फलतां व्रजेत्।
तदस्ति चेन्महद्देयं तन्मे शंसितुमर्हसि॥ महेश्वर उवाच। 13-234-30(90666)
तदप्यस्ति महाभागे नराणां भावदोषतः॥ 13-234-31(90667)
कृत्वा धर्मं तु विधिवत्पश्चात्तापं करोति चेत्।
श्लाघया वा यदि ब्रूयाद्वृथा संसदिं यत्कृतम्॥ 13-234-32(90668)
प्रकल्पयेच्च मनसा तत्फलं प्रेत्यभावतः।
कर्म धर्मकृतं यच्च सततं फलकाङ्क्षया। एतत्कृतं वा दत्तं वा परत्र विफलं भवेत्॥ 13-234-33(90669)
एते दोषा विवर्ज्याश्च दातृभिः पुण्यकाङ्क्षिभिः।
सनातनमिदं वृत्तं सद्भिराचरितं तथा॥ 13-234-34(90670)
अनुग्रहात्परेषां तु गृहस्थानामृणं हि तत्।
इत्येवं मन आविश्य दातव्यं सततं बुधैः॥ 13-234-35(90671)
एवमेव कृतं नित्यं सुकृतं तद्भवेन्महत्।
सर्वसाधारणं द्रव्यमेवं दत्त्वा महत्फलम्॥ ॥ 13-234-36(90672)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः॥ 234 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|